का श्रेष्ठा?
कदाचित् अङ्गुलीनां परस्परं कलहः सम्पन्नः। अङ्गुष्ठः तर्जनी मध्यमा अनामिका कनिष्ठिका च कलहं कुर्वन्ति अहमहमिकया च वदन्ति - अहं राजा अहं राज्ञी अहं श्रेष्ठः अहं श्रेष्ठा इति। अन्ततः निर्णयार्थं ताः सर्वाः न्यायालयं गच्छन्ति। न्यायाधीशस्य पुरतः स्वपक्षम् उपस्थापयन्ति।
आदौ अङ्गुष्ठः वदति - अहम् अङ्गुष्ठः। अहं बलवत्तमः। अहं दृढतमः। अतः अहमेव राजा।
ततः तर्जनी वदति - अहं तर्जनी। अहं सर्वान् तर्जयामि। अहं सर्वं सूचयामि। अतः अहमेव राज्ञी।
तत्पश्चात् मध्यमा वदति - अहं मध्यमा। अहं दीर्घतमा। अतः अहमेव राज्ञी।
ततः अनामिका अग्रे आगत्य वदति - अहं अनामिका। सर्वासु अहमेव धनिकतमा। यतः अहं बहुरत्नखचितं कनकमयम् अङ्गुलीयकम् धरामि। अतः अहमेव राज्ञी।
अन्ते कनिष्ठिका मन्दम् उत्तिष्ठति। अग्रे आगत्य वदति च - अहम् अङ्गुष्ठः इव न बलवती। तर्जनी इव अहं कमपि तर्जयितुं न शक्नोमि। मध्यमा इव अहं न दीर्घतमा परं लघुतमा। नाहम् अनामिका इव धनिका अपि। यतः अङ्गुलीयकं न धरामि। एवं सत्यपि मया किञ्चन सौभाग्यं तु प्राप्तम् अस्ति। यदा पूजनीयाः आगच्छन्ति तदा जनाः तान् साञ्जलिबन्धं नमस्कुर्वन्ति। तदा तु अहमेव अग्रे भवामि। पूजनीयानां तेषां च दर्शनं आदौ अहमेव प्राप्नोमि - इति।
सर्वासां वादं श्रुत्वा न्यायाधीशः निर्णयं श्रावयति यत् कनिष्ठिका एव अङ्गुलीनां राज्ञी इति।